|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.24. अध्यायः 024
Mahabharata - Adi Parva - Chapter Topics
राहुणा कृतोपद्रवस्य सूर्यस्य क्रोधः॥ 1 ॥ ब्रह्माज्ञयाऽरुणस्य सूर्यसारथ्यकरणम्॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text
सौतिरुवाच। 1-24-0x(94)(1348)
स श्रुत्वाऽथात्मनो देहं सुपर्णः प्रेक्ष्य च स्वयम्।
शरीरप्रतिसंहारमात्मनः संप्रचक्रमे॥ 1-24-1(1349)
सुपर्ण उवाच। 1-24-2x(95)
न मे सर्वाणि भूतानि विभियुर्देहदर्शनात्।
भीमरूपात्समुद्विग्रास्तस्मात्तेजस्तु संहरे॥ 1-24-2(1350)
सौतिरुवाच। 1-24-3x(96)
ततः कामगमः पक्षी कामवीर्यो विहंगमः।
अरुणं चात्मनः पृष्ठमारोप्य स पितुर्गृहात्॥ 1-24-3(1351)
मातुरन्तिकमागच्छत्परं तीरं महोदधेः।
तत्रारुणश्च निक्षिप्तो पुरोदेशे महाद्युतेः॥ 1-24-4(1352)
सूर्यस्तेजोभिरत्युग्रैर्लोकान्दग्धुमना यदा। 1-24-5(1353)
रुरुरुवाच।
किमर्थं भगवान्सूर्यो लोकान्दग्धुमनास्तदा॥ 1-24-5x(97)
किमस्तापहृतं देवैर्येनमं मन्युराविशत्। 1-24-6(1354)
प्रमतिरुवाच।
चन्द्रार्काभ्यां यदा राहुराख्यातो ह्यमृतं पिबन्॥ 1-24-6x(98)
वैरानुबन्धं कृतवांश्चन्द्रादित्यौ तदाऽनघ।
बाध्यमानं ग्रहेणाथ ह्यादित्यं मन्युराविशत्॥ 1-24-7(1355)
सुरार्थाय समुत्पन्नो रोषो राहोस्तु मां प्रति।
बह्वनर्थकरं पापमेकोऽहं समवाप्नुयाम्॥ 1-24-8(1356)
सहाय एव कार्येषु न च कृच्छ्रेषु दृश्यते।
पश्यन्ति ग्रस्यमानं मां सहन्ते वै दिवौकसः॥ 1-24-9(1357)
तस्माल्लोकविनाशार्थं ह्यवतिष्ठे न संशयः।
एवं कृतमतिः सूर्यो ह्यस्तमभ्यगमद्गिरिम्॥ 1-24-10(1358)
तस्माल्लोकविनाशाय संतापयत भास्करः।
ततो देवानुपागम्य प्रोचुरेवं महर्षयः॥ 1-24-11(1359)
आद्यार्धरात्रसमये सर्वलोकभयावहः।
उत्पत्स्यते महान्दाहस्त्रैलोक्यस्य विनाशनः॥ 1-24-12(1360)
ततो देवाः सर्षिगणा उपगम्य पितामहम्।
अब्रुवन्किमिवेहाद्य महद्दाहकृतं भयम्॥ 1-24-13(1361)
न तावद्दृश्यते सूर्यः क्षयोऽयं प्रतिभाति च।
उदिते भगवन्भानौ कथनेतद्भविष्यति॥ 1-24-14(1362)
पितामह उवाच। 1-24-15x(99)
एष लोकविनाशाय रविरुद्यन्तुमुद्यतः।
दृश्यन्नेव हि लोकान्स भस्मराशीकरिष्यति॥ 1-24-15(1363)
तस्य प्रतिविधानं च विहितं पूर्वमेव हि।
कश्यपस्य सुतो धीमानरुणेत्यभिविश्रुतः॥ 1-24-16(1364)
महाकायो महातेजाः स स्थास्यति पुरो रवेः।
करिष्यति च सारथ्यं तेजश्चास्य हरिष्यति॥ 1-24-17(1365)
लोकानां स्वस्ति चैवं स्यादृषीणां च दिवौकसाम्। 1-24-18(1366)
प्रमतिरुवाच।
ततः पितामहाज्ञातः सर्वं चक्रे तदाऽरुणः॥ 1-24-18x(100)
उदितश्चैव सविता ह्यरुणेन समावृतः।
एतत्ते सर्वमाख्यातं यत्सूर्यं मन्युराविशत्॥ 1-24-19(1367)
अरुणश्च यथैवास्य सारथ्यमकरोत्प्रभुः।
भूय एवापरं प्रश्नं शृणु पूर्वमुदाहृतम्॥ ॥ 1-24-20(1368)
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि चतुर्विंशोऽध्यायः॥ 24 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-24-2 समुद्विग्नाः समुद्विग्नानि॥ 1-24-7 चन्द्रादित्यौ प्रतीति शेषः॥ 1-24-12 किमुत सूर्ये उदिते इति शेः॥ चतुर्विंशोऽध्यायः॥ 24 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|